(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.310. अध्यायः 310
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति प्राणिनां शरीरादिसंबन्धादिप्रकारप्रतिपादकवसिष्ठकरालजनकसंवादानुवादः॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

वसिष्ठ उवाच। 12-310-0x(6492)(77974)
एवमप्रतिबुद्धत्वादबुद्धजनसेवनात्।
सर्गकोटिसहस्राणि मरणान्तानि गच्छति॥ 12-310-1(77975)
धाम्ना धामसहस्राणि पतनान्तानि गच्छति।
तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च॥ 12-310-2(77976)
चन्द्रमा इव भूतानां पुनस्तत्र सहस्रशः।
लीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान्॥ 12-310-3(77977)
कला पञ्चदशी योनिस्तद्धाम इति मन्यते।
नित्यमेतं विजानीहि सोमं वै षौडशीं कलाम्॥ 12-310-4(77978)
कलया जायते जन्तुः पुनः पुनरबुद्धिमान्।
धाम तस्योपयुञ्जन्ति भूय एवोपजायते॥ 12-310-5(77979)
षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम्।
न तूपयुज्यते देवैर्देवानुपयुनक्ति सा॥ 12-310-6(77980)
एतामक्षपयित्वा हि जायते नृपसत्तम।
सा ह्यस्य प्रकृतिर्दृष्टा तत्क्षयान्मोक्ष उच्यते॥ 12-310-7(77981)
तदेवं षोडशकलं देहमव्यक्तसंज्ञिकम्।
ममायमिति मन्वानस्तत्रैव परिवर्तते॥ 12-310-8(77982)
पञ्चविंशस्तथैवात्मा तस्यैवाप्रतिबोधनात्।
विमलश्च विशुद्धश्च शुद्धामलनिषेवणात्॥ 12-310-9(77983)
अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिव।
अबुद्धसेवनाच्चापि बुद्धोऽप्यबुद्धतां व्रजेत्॥ 12-310-10(77984)
तथैवाप्रतिबुद्धोऽपि विज्ञेयो नृपसत्तम।
प्रकृतेस्त्रिगुणायास्तु सेवनात्प्राकृतो भवेत्॥ 12-310-11(77985)
करालजनक उवाच। 12-310-12x(6493)
अक्षरक्षरयोरेषु द्वयोः संबन्ध उच्यते।
स्त्रीपुंसोश्चापि भगवन्संबन्धस्तद्वदुच्यते॥ 12-310-12(77986)
ऋते तु पुरुषं नेह स्त्री गर्भं धारयत्युत।
ऋते स्त्रियं न पुरुषो रूपं निर्वर्तयेत्तथा॥ 12-310-13(77987)
अन्योन्यस्याभिसंबन्धादन्योन्यगुणसंश्रयात्।
रूपं निर्वर्तयत्येतदेवं सर्वासु योनिषु॥ 12-310-14(77988)
स्त्रीपुंसोरभिसंबन्धादन्योन्यगुणसंश्रयात्।
ऋतौ निर्वर्त्यते रूपं तद्वक्ष्यामि निदर्शनम्॥ 12-310-15(77989)
ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा।
अस्थि स्नायु च मज्जानं जानीमः पैतृकान्द्विज॥ 12-310-16(77990)
त्वङ्भांसं शोणितं चेति मातृजान्यपि शुश्रुम।
एवमेताद्द्विजश्रेष्ठ वेदे शास्त्रे च पठ्यते॥ 12-310-17(77991)
प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते।
वेदशास्त्रप्रमाणानां प्रमाणं तत्सनातनम्॥ 12-310-18(77992)
[अन्योन्यगुणसंरोधादन्योन्यगुणसंश्रयात्।]
एवमेवाभिसंबद्धौ नित्यं प्रकृतिपूरुषौ॥ 12-310-19(77993)
पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते।
अथवाऽनन्तरकृतं किंचिदेव निदर्शनम्।
तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वथा॥ 12-310-20(77994)
मोक्षकामा वयं चापि काङ्क्षामो यदनामयम्।
अदेहमजरं नित्यमतीन्द्रियमनीश्वरम्॥ 12-310-21(77995)
वसिष्ठ उवाच। 12-310-22x(6494)
यदेतदुक्तं भवता देवशास्त्रनिदर्शनम्।
एवमेतद्यथा चैतन्न गृह्णाति तथा भवान्॥ 12-310-22(77996)
धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः।
न च ग्रन्थस्य तत्त्वज्ञो यथावत्त्वं नरेश्वरः॥ 12-310-23(77997)
यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः।
न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्वारणं वृथा॥ 12-310-24(77998)
मारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः।
यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थगुणो वृथा॥ 12-310-25(77999)
ग्रन्थस्यार्थस्य पृष्टः संस्तादृशो वक्तुमर्हति।
यथातत्त्वाभिगमनादर्थं तस्य स विन्दति॥ 12-310-26(78000)
वस्तु संसत्सु कथयेद्ग्रन्थार्थस्थूलबुद्धिमान्।
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात्॥ 12-310-27(78001)
निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः।
सोपहास्यात्मतामेति यस्माच्चावाप्तवानपि॥ 12-310-28(78002)
तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते।
याथातथ्येन साङ्ख्येषु योगेषउ च महात्मसु॥ 12-310-29(78003)
यदेव योगाः पश्यन्ति साङ्ख्यैस्तदवगम्यते।
एकं साङ्ख्यं च योगं च यः पश्यति स बुद्धिमान्॥ 12-310-30(78004)
त्वङ्भांसं रुघिरं मेदः पित्तं मज्जा च स्नायु च।
एतदैन्द्रियकं तात तद्भवानिदमाह माम्॥ 12-310-31(78005)
द्रव्याद्द्रव्यस्य निर्वृत्तिरिन्द्रियादिन्द्रियं तथा।
देहाद्देहमवाप्नोति बीजाद्वीजं तथैव च॥ 12-310-32(78006)
निरिन्द्रियस्याबीजस्य निर्द्रव्यस्याप्यदेहिनः।
कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः॥ 12-310-33(78007)
गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च।
एवं गुणाः प्रकृतितो जायन्ते निविशन्ति च॥ 12-310-34(78008)
त्वङ्भांसं रुधिरं मेदः पित्तं मज्जाऽस्थि स्नायु च।
अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतानि वै॥ 12-310-35(78009)
पुमांश्चैवापुमांश्चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम्।
न वा पुमान्पुमांश्चैव स लिङ्गीत्यभिधीयते॥ 12-310-36(78010)
अलिङ्गात्प्रकृतिर्लिङ्गैरुपालभ्यति सात्मजैः।
यथा पुष्पफलैर्नित्यमृतवो मूर्तयस्तथा॥ 12-310-37(78011)
एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यते।
पञ्चविंशतिमस्तात लिङ्गेषु नियतात्मकः॥ 12-310-38(78012)
अनादिनिधनोऽनन्तः सर्वदर्शी निरामयः।
केवलं त्वभिमानित्वादगुणेष्वगुणा उच्यते॥ 12-310-39(78013)
गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः।
तस्मादेवं विजानन्ति ये जना गुणदर्शिनः॥ 12-310-40(78014)
यदा त्वेष गुणनिव प्रकृतावनुमन्यते।
तदा स गुणवानेव परमं नानुपश्यति॥ 12-310-41(78015)
यत्तं बुद्धेः परं प्राहुः साङ्ख्ययोगाश्च सर्वशः।
बुध्यमानं महाप्राज्ञमबुद्धपरिवर्जनात्॥ 12-310-42(78016)
अप्रबुद्धमथाव्यक्तं गुणं प्राहुरनीश्वरम्।
निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च॥ 12-310-43(78017)
प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः।
साङ्ख्ययोगे च कुशला बुध्यन्ते परमैषिणः॥ 12-310-44(78018)
यदा प्रबुद्धास्त्वव्यक्तमवस्थाजन्मभीरवः।
बुध्यमानं प्रबुद्धेन गमयन्ति समन्ततः॥ 12-310-45(78019)
एतन्निदर्शनं सम्यगसम्यक्चार्थदर्शनम्।
बुध्यमानाप्रबुद्धाना पृथग्पृथगरिंदम्॥ 12-310-46(78020)
परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम्।
एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते॥ 12-310-47(78021)
पञ्चविंशतिनिष्ठोऽयं यदा सम्यक्प्रचक्षते।
एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम्॥ 12-310-48(78022)
तत्त्वनिस्तत्त्वयोरेतत्पृथग्नेव निदर्शनम्।
पञ्चविंशतितत्वं तु तत्त्वमाहुर्मनीषिणः॥ 12-310-49(78023)
निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम्।
वर्गस्य वर्गमाचारं तत्त्वं तत्त्वात्सनातनम्॥ ॥ 12-310-50(78024)

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि दशाधिकत्रिशततमोऽध्यायः॥ 310॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-310-9 तस्यैव प्रतिसाधनात् इति ट. थ. पाठः॥ 12-310-11 तथैव प्रतिबुद्धोऽपीति थ. ध. पाठः॥ 12-310-15 रत्यर्थमभिसंबन्धादिति ट. पाठः॥ 12-310-27 न यः संसत्स्विति झ. पाठः॥ 12-310-28 यस्माच्चैवात्मवानपीति झ. पाठः॥ 12-310-29 योगेशेषु मह्यत्मस्विति ध. पाठः॥ 12-310-33 निरिन्द्रियस्य बीजस्येति ट. ड. थ. पाठः॥ 12-310-36 स्त्रीलिङ्गं माकृतं स्मृतमिति ड. थ. पाठः॥ 12-310-42 यं तु बुद्धेः परं इति ट. पाठः। यत्तद्बुद्धेरिति झ. पाठः॥ 12-310-43 सगुणं प्राहुरीश्वरमिति ट. पाठः। अगुणं प्राहुरिति झ. पाठः॥ 12-310-46 असत्यत्वार्थदर्शनमिति ड.पाठः। असक्त्वार्थदर्शनमिति ट. थ. पाठः॥ 12-310-49 पञ्चविंशतिकत्वं तु इति ट. पाठः। पञ्चविंशतिसर्गं तु इति झ. पाठः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.